अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् !!
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्|
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे||१||
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्|
इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे||२||
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणीरागीणे जानकीजानये|
वल्लवीवल्लाभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ||३||
कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे|
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक||४||
राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः |
लक्ष्मणेनान्वितो वानरै: सेवितो-sगस्त्यसम्पुजितो राघवः पातु माम् ||५||
धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादकः |
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा||६||
विद्युदुद्योतवत्प्रस्फुरद्वासस¬ं प्रावृडम्भोदवत्प्रोल्लस्द्विग्¬रहम्|
वन्यया मालया शोभितोर:स्थलं लोहिताङघ्रिद्वयं वारिजाक्षं भजे||७||
कुञ्चितै: कुन्तलैभ्रार्जमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयो|
हारकेयूरकं कङ्कणप्रोज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ||८||
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम्|
वृत्ततः सुन्दरं कर्तविश्वम्भर-स्तस्य वश्यो हरिर्जायते सत्वरम्||९||