सीधे मुख्य सामग्री पर जाएं

संदेश

अच्युतं केशवं रामनारायणं लेबल वाली पोस्ट दिखाई जा रही हैं

Achutyam Keshvam, रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् !!

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् !! अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्| श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे||१|| अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्| इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे||२|| विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणीरागीणे जानकीजानये| वल्लवीवल्लाभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ||३|| कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे| अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक||४|| राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः | लक्ष्मणेनान्वितो वानरै: सेवितो-sगस्त्यसम्पुजितो राघवः पातु माम् ||५|| धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादकः | पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा||६|| विद्युदुद्योतवत्प्रस्फुरद्वासस¬ं प्रावृडम्भोदवत्प्रोल्लस्द्विग्¬रहम्| वन्यया मालया शोभितोर:स्थलं लोहिताङघ्रिद्वयं वारिजाक्षं भजे||७|| कुञ्चितै: कुन्तलैभ्रार्जमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयो| हारकेयूरकं कङ्कणप्रोज्वलं किङ्किणीमञ्जुलं श्या...